श्री काशी विश्वनाथ अष्टकम (Kashi Vishwanath Ashtakam Lyrics in Hindi) - Bhaktilok

Roshan Lal Bind

श्री काशी विश्वनाथ अष्टकम (Kashi Vishwanath Ashtakam Lyrics in Hindi) - Bhaktilok

श्री काशी विश्वनाथ अष्टकम (Kashi Vishwanath Ashtakam Lyrics in Hindi) 


॥ श्रीकाशीविश्वनाथाष्टकम् ॥

गङ्गातरंगरमणीयजटाकलापं

गौरीनिरन्तरविभूषितवामभागम् ।

नारायणप्रियमनंगमदापहारं

वाराणसीपुरपतिं भज विश्वनाथम् ॥1॥


वाचामगोचरमनेकगुणस्वरूपं

वागीशविष्णुसुरसेवितपादपीठम् ।

वामेनविग्रहवरेणकलत्रवन्तं

वाराणसीपुरपतिं भज विश्वनाथम् ॥2॥


भूताधिपं भुजगभूषणभूषितांगं

व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् ।

पाशांकुशाभयवरप्रदशूलपाणिं

वाराणसीपुरपतिं भज विश्वनाथम् ॥3॥


शीतांशुशोभितकिरीटविराजमानं

भालेक्षणानलविशोषितपंचबाणम् ।

नागाधिपारचितभासुरकर्णपूरं

वाराणसीपुरपतिं भज विश्वनाथम् ॥4॥


पंचाननं दुरितमत्तमतङ्गजानां

नागान्तकं दनुजपुंगवपन्नगानाम् ।

दावानलं मरणशोकजराटवीनां

वाराणसीपुरपतिं भज विश्वनाथम् ॥5॥


तेजोमयं सगुणनिर्गुणमद्वितीयं

आनन्दकन्दमपराजितमप्रमेयम् ।

नागात्मकं सकलनिष्कलमात्मरूपं

वाराणसीपुरपतिं भज विश्वनाथम् ॥6॥


रागादिदोषरहितं स्वजनानुरागं

वैराग्यशान्तिनिलयं गिरिजासहायम् ।

माधुर्यधैर्यसुभगं गरलाभिरामं

वाराणसीपुरपतिं भज विश्वनाथम् ॥7॥


आशां विहाय परिहृत्य परस्य निन्दां

पापे रतिं च सुनिवार्य मनः समाधौ ।

आदाय हृत्कमलमध्यगतं परेशं

वाराणसीपुरपतिं भज विश्वनाथम् ॥8॥


॥ फलश्रुति ॥

वाराणसीपुरपतेः स्तवनं शिवस्य

व्याख्यातमष्टकमिदं पठते मनुष्यः ।

विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं

सम्प्राप्य देहविलये लभते च मोक्षम् ॥


विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ ।

शिवलोकमवाप्नोति शिवेन सह मोदते ॥

॥ इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं सम्पूर्णम् ॥


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !